जयति राधे जगत् जननी आनन्दमयि जगदीश्वरी ! प्रेमस्वरुपा शुभदात्री भक्तवत्सला परमेश्वरी । गोपालमोहिनी दिव्यकटाक्षी ॠषिवल्लभा ज्ञानेश्वरी ! कुंजविहारिणी कृष्णरमणा वृषभानुजा माधवेश्वरी ॥
गोपीश्रेष्ठा विपिनविहारिणी नृत्यांगना व्रजेश्वरी ! जगकल्याणी साधुचूड़ामणि जय विमले अखिलेश्वरी । आत्मविमोहिनी संतनिवेदिता शशिमुखि मंगलेश्वरि ! चरणचपला नीलवसना नानाऽलंकार धारिणी ॥
मृदुलवाणी मधुरहासिनी मधुरसंगीतवादिनी ! रासरमणी हरिप्रिया पावनकर्त्री सुरविनोदिनी । अभिचारखण्डिनी असुरनिकंदिनी अधमोद्धारिणीश्वरी ! गोलोकवासिनी शांतस्वरुपा गगनगम्भीरा मानिनी ॥
श्रीराधिकासमं मधुरम् प्रेममंजरी द्वादशम् ! योगर्षि श्रीकपिल प्रोक्तेन भक्ताह्लादकारकम् । रसमाप्नोति रसिकाः सर्वसुखप्रदायकम् ! त्रिसन्ध्यं यो पठेन्नित्यं राधाकृष्णसमर्पितम् ॥
(1) ॐ प्रेमस्वरुपा राधिकायै नमः ॥
(2) ॐ काली कृष्ण तथैव च ॥